|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.13. अध्यायः 013
Mahabharata - Bhishma Parva - Chapter Topics
सञ्जयेन धृतराष्ट्रंप्रति भीष्महननकथनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text
वैशम्पायन उवाच। 6-13-0x(3987)(39120)
अथ गावल्गणिर्विद्वान्संयुगादेत्य भारत।
प्रत्यक्षदर्शी सर्वस्य भूतभव्यभविष्यवित् ॥ 6-13-1(39121)
ध्यायते धृतराष्ट्राय सहसोत्पत्य दुःखितः ।
आचष्ट निहतं भीष्मं भरतानां पितामहम् ॥ 6-13-2(39122)
सञ्जय उवाच। 6-13-3x(3988)
सञ्जयोऽहं महाराज नमस्ते भरतर्षभ।
हतो भीष्मः शान्तनवो भरतानां पितामहः ॥ 6-13-3(39123)
ककुदं सर्वयोधानां धाम सर्वधनुष्मताम्।
शरतल्पगतः सोऽद्य शेते कुरुपितामहः॥ 6-13-4(39124)
यस्य वीर्यं समाश्रित्य द्यूतं पुत्रस्तवाकरोत्।
स शेते निहतो राजन्संख्ये भीष्मः शिखण्डिना ॥ 6-13-5(39125)
यः सर्वान्पृथिवीपालान्समवेतान्महामृधे ।
जिगायैकरथेनैव काशिपुर्यां महारथः ॥ 6-13-6(39126)
जामदग्न्यं रणे रामं योऽयुध्यदपसंभ्रमः ।
न हतो जामदग्न्येन स हतोऽद्य शिखण्डिना ॥ 6-13-7(39127)
महेन्द्रसदृशः शौर्ये स्थैर्ये च हिमवानिव ।
समुद्र इव गाम्भीर्यो सहिष्णुत्वे धरासमः ॥ 6-13-8(39128)
शरदंष्ट्रो धनुर्वक्रः खङ्गिजिह्वो दुरासदः।
नरसिंहः पिता तेऽद्य पाञ्चाल्येन निपातितः ॥ 6-13-9(39129)
पाण्डवानां महासैन्यं यं दृष्ट्वोद्यतमाहवे।
प्रावेपत भयोद्विग्नं सिंह दृष्ट्वेव गोगणः ॥ 6-13-10(39130)
परिरक्ष्य स सेनां ते दशरात्रमनीकहा ।
जगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम् ॥ 6-13-11(39131)
यः स शक्र इवाक्षोभ्यो वर्षन्बाणान्सहस्रशः।
जघान युधि योधानामर्बुदं दशभिर्दिनैः ॥ 6-13-12(39132)
स शेते निहतो भूमौ वातभग्न इव द्रुमः।
तव दुर्मन्त्रिते राजन्यथा नार्हः स भारत ॥ ॥ 6-13-13(39133)
इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि त्रयोदशोऽध्यायः ॥
Mahabharata - Bhishma Parva - Chapter Footnotes
6-13-4 ककुदं राज्ञां मध्ये ध्वजतुल्यम्। धाम तेजः ॥ 6-13-7 अपसंभ्रमो निर्भयः ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|